हृदये चित्रं ते आलिखितम् , आयासि द्रष्टुं न वा ?
मन्येऽहं पर्याप्तनिमित्तमिदं, त्वामानेतुं न वा !

पुरा यदा त्वां दृष्टवानहं चित्तं मे प्रहृष्टम् ।
त्वद्हृदयानुगतभावदर्शिस्मितं मुखे तव दृष्टम् ।
किं क्षणमेकं यावत्पुनश्च शक्यतेऽनुभवितुं न वा ॥१॥

व्याकुलितं मे जातं हृदयं रोचते न किञ्चिन्मे ।
त्वद्विरहदुःखं न सह्यमाशु आयाहि प्रियतमे ।
किं प्रेरयते गीतमिदं मे त्वां मा मिलितुं न वा ॥२॥
~मेहेरालोक~
-meheralok

Photo By:
Submitted by: meheralok
Submitted on: Thu Dec 15 2016 11:50:58 GMT+0530 (IST)
Category: Original
Language: संस्कृत/Sanskrit

– Read submissions at http://readit.abillionstories.com
– Submit a poem, quote, proverb, story, mantra, folklore, article, painting, cartoon or drawing at http://www.abillionstories.com/submit